Sanskrit poems – संस्कृत भारत की एक प्राचीन भाषा है जिसे देवभाषा के नाम से भी जाना जाता है। संस्कृत भाषा में भारत का साहित्य गद्य, पद्य, शुभाषिते, काव्य आदि के माध्यम से प्रचुर मात्रा में उपलब्ध है। इस लेख में, हम आपके साथ पाठ्यपुस्तकों से ली गई कुछ पसंदीदा संस्कृत कविताओं को साझा करने जा रहे हैं।
एहि एहि वीर रे!
एहि एहि वीर रे, वीरतां विधेही रे
भारतस्य रक्षणाय, जीवनं प्रदेहि रे ॥
त्वं हि मार्गदर्शकः, त्वं हि देश रक्षकः
त्वं हि शत्रुनाशकः देश प्रेम वर्धकः ॥
साहसी सदा भवेः , वीरतां सदा भजेः
भारतीय – संस्कृतिं , मानसे सदा धरेः ॥
पदं – पदं मिलच्चलेतू, सोत्साहं मनो भवेत्
भारतस्य गौरवाय, सर्वदा रणे जयेत् ॥
Also read: स्वच्छ भारत अभियान पर कविता
आम्लं द्राक्षाफलम्!
एकः शृगालः वनं गच्छति
पिपासा बुभुक्षया वनं गच्छति ॥
तत्र गच्छति किमपि न लभते
इतोपि गच्छति किमपि न लभते ॥
श्रान्तः जायते खिन्नः जायते
श्रान्तः जायते खिन्नः जायते ॥
वामतः पश्यति, दक्षिणतः पश्यति
अग्रतः पश्यति, पृष्ठतः पश्यति ॥
स्वेदः जायते तृषा जायते
स्वेदः जायते तृषा जायते ॥
पश्यति हाक्षालतां
सः पश्यति द्राक्षाफलम् ॥
उपरि उपरि लतासु दृश्यते च तत्फलम्
अनुक्षणं तन्मुखे रसः जायते
अनुक्षणं तन्मुखे रसः जायते ॥
एकवारम् उत्पतति, द्विवारम् उत्पतति
त्रिवारम् उत्पतति, पुनः पुनः उत्पतति ॥
स्वेद जायते क्षमः जायते
तस्य स्वेदः जायते श्रमः जायते ॥
आम्लं द्राक्षाफलम् ,आम्लं द्राक्षाफलम्
आम्लं द्राक्षाफलम् ,आम्लं द्राक्षाफलम्॥
तारे तारे भासि कथम्!
तारे तारे भासि कथम् , उन्नतगगने यासि कथम् ।
तिमिरे ताराभिः सह वससि, स्फुरसे ताभिः सह हससि ॥
रात्रौ बहु जयगरणं कुरुषे , दिवसे शयनं त्वं कुरुषे ।
अगणितसंखयानि च मित्राणि , खे तव रचितानि तु चित्राणि ॥
आयासि त्वं सायङ् काले , यासि किल त्वं प्रातः काले ।
स्फुरसे नित्यं सुन्दरदीपः नभसीव त्वं हीरकदीपः ॥
Also read: PM Modi Poem – “हे सागर, तुम्हें मेरा प्रणाम”
एकः काकः तृषापीडितः!
एकः काकः तृषापीडितः
जलं नालभत दूरे दूरे ।
वृक्षाद् वृक्षं गतः वराकः
ग्रामे ग्रामे नगरे नगरे ॥ 1 ॥
एकं सहसा घटं दृष्टवान्
घटे जलं दृष्टं बहुदूरे ।
खण्डं खण्डं पाषाणानां
क्षिप्तवान् काकः जलमध्ये ॥ 2 ॥
घटकण्ठं सम्प्राप्तं नीरं
पीत्वा सन्तुष्टः खलु काकः ।
बुद्धिपूर्वकं यत्नं कुरुते
वद न सफलतां लभते का? कः? ॥ 3 ॥
सुभाषितानि!
पृथिव्यां त्रीणि रत्नानि जलमन्न सुभाषितम्।
मूढै: पाषाणखण्डेषु रत्नसंज्ञा विधीयते।।1।।
सत्येन धार्यते पृथ्वी सत्येन तपते रवि:।
सत्येन वाति वायुश्च सर्व सत्ये प्रतिष्ठितम्।।2।।
दाने तपसि शौर्ये च विज्ञाने विनये नये।
विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा।।3।।
सद्धिरेव सहासीत सद्धिः कुर्वीत सड्तिम्।
सद्धिर्विंवादं मैत्रीं च नासद्धि: किज्चिदाचरेत्।।4।।
धनधान्यप्रयोगेषु विद्याया: संग्रहेषु च।
आहारे व्यवहारे च त्यक्तलज्ज: सुखी भवेत्।।5।।
क्षमावशीकृतिलोंके क्षमया किन् न साध्यते।
शान्तिखड्गः करे यस्य किन् करिष्यति दुर्जनः।।6।।
Also read: हरिवंश राय बच्चन की मधुशाला कविता
लालबगीतम्!
उदिते सूर्ये धरणी विहसति।
पक्षी कूजति कमलं विकसति।।1।।
नदति मन्दिरे उच्चैर्ढक्का।
सरितः सलिले सेलति नौका।।2।।
पुष्पे पुष्पे नानारदः।
तेषु डयन्ते चित्रपतदः।।3।।
वृक्षे वृक्षे नूतनपत्रम्।
विविधैर्वनैंर्विभाति चित्रम्।।4।।
धेनु: प्रातर्यच्छति दुग्धम्।
शुद्धम् स्वच्छ मधुरं स्निग्धम्।।5।।
गहने विपिने व्याघ्रो गर्जति।
उच्चैस्तत्र च सिंहः नर्दति।।6।।
हरिणोड्यं खादति नवघासम्।
सर्वत्र च पश्यति सविलासम्।।7।।
उष्ट्रः तुग्ड मन्दम् गच्छति
पृष्ठे प्रचुरं भारं निवहति।।8।।
घोटकराजः क्षीप्रम् धावति।
धावनसमये किमपि न खादति।।9।।
पश्यत भल्लुकमिमं करालम्।
नृत्यति थथथै कुरु करतालम्।।10।।
सदाचारः!
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युध्मसमो बन्धुः कृत्वा यं नावसीदति।।1।।
श्वः कार्यमच्य कुर्वीत पूर्वाह्ले चापराहिकम् |
नहि प्रतीक्षते मृत्यु: कृतमस्य न वा कृतम्।।2।।
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयात् एष धर्म: सनातन:।।3।।
सर्वदा व्यवहारे स्यात्त् औदार्य सत्यता तथा।
ऋजुता मृदुता चापि कौटिल्यं न कदाचन।।4।।
श्रेष्ठ जन॑ गुरुं चापि मातरं पितरं तथा।
मनसा कर्मणा वाचा सेवेत सततं सदा।।5।।
मित्रेण कलहं कृत्वा न कदापि सुखी जनः।
इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत्।।6।।
भारतीवसन्तगीतिः!
निनादय नवीनामये वाणि! वीणाम्
मृदुम् गाय गीतिम् ललित-नीति-लीनाम्।
मधुर-मज्जरी-पिज्जरी-भूत-मालाः
वसन्ते लसन्तीह सरसा रसालाः
कलापा: ललित-कोकिला-काकलीनाम्।।1।।
वहति मन्दमन्दं सनीरे समीरे
कलिन्दात्मजायास्सवानीरतीरे
नतां पह्लिमालोक्य मधुमाधवीनाम्।।2।।
ललित-पल्लवे पादपे पुष्पपुज्जे
मलयमारुतोच्चुम्बिते मज्जुकुज्जे,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम्।।3।।
लतानां नितान्तं सुमं शान्तिशीलम्
चलेदुच्छलेत्कान्तसलिलं सलीलम्,
तवाकर्ण्य वीणामदीनां नदीनाम्।।4।।
तो दोस्तों, इस लेख में आपने कुछ संस्कृत कविताएं (Sanskrit poem) पढ़ी और हमें उम्मीद है कि आपको भी यह पसंद आई होगी।